|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.357. अध्यायः 357
Mahabharata - Shanti Parva - Chapter Topics
श्रीनारायणेन स्वनाभिपद्मो ब्रह्मणः सर्जनम्॥ 1॥ ततो मधुकैटभयोरुत्पादनम्॥ 2॥ ताभ्यां ब्रह्मणो वेदापहरणम्॥ 3॥ हयशिरोरूपिणा हरिणा ब्रह्मणे पुनर्वेदप्रत्यर्पणपूर्वकं मधुकैटभसंहरणम्॥ 4॥ वैशम्पायनेन जनमेजयाय श्रीनारायणमहिमानुवर्णनम्॥ 5॥

Mahabharata - Shanti Parva - Chapter Text
शौनक उवाच। 12-357-0x(6629)(80249)
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः।
जन्मधर्मगृहे चैव नरनारायणात्मकम्॥ 12-357-1(80250)
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी।
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः॥ 12-357-2(80251)
तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ।
हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ॥ 12-357-3(80252)
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत्।
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना॥ 12-357-4(80253)
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा।
रूपं प्रभावं महतामपूर्वं धीमतांवर॥ 12-357-5(80254)
दृष्ट्वा हि विवुधश्रेष्ठमपूर्वममितौजसम्।
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने॥ 12-357-6(80255)
एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसंभवम्।
कथयस्वोत्तममते महापुरुषसंश्रितम्।
पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः॥ 12-357-7(80256)
सौतिरुवाच। 12-357-8x(6630)
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्।
जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै॥ 12-357-8(80257)
श्रुत्वाऽश्वशिरसो मूर्ति देवस्य हरिमेधसः।
उत्पन्नसंशयो राजा एतदेवमचोदयत्॥ 12-357-9(80258)
जनमेजय उवाच। 12-357-10x(6631)
यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम्।
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम्॥ 12-357-10(80259)
वैशम्पायन उवाच। 12-357-11x(6632)
यत्किंचिदिह लोके वै देहबद्धं विशांपते।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः॥ 12-357-11(80260)
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्।
भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च॥ 12-357-12(80261)
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम॥ 12-357-13(80262)
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा।
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले॥ 12-357-14(80263)
वायौ चाकाशसंलीने आकाशे च मनोनुगे।
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते॥ 12-357-15(80264)
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च।
तम एवाभवत्सर्वं न प्राज्ञायत किंचन॥ 12-357-16(80265)
तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम्।
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम्॥ 12-357-17(80266)
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते।
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम॥ 12-357-18(80267)
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः।
`आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः॥ 12-357-19(80268)
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः।
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्॥ 12-357-20(80269)
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः।
अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः।
हिरण्यगर्भो भगवान्सर्वलोकपितामहः॥ 12-357-21(80270)
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः।
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः॥ 12-357-22(80271)
ददृशेऽद्भुतसंकाशो लोकानाप्याययन्प्रभुः।
सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन्॥ 12-357-23(80272)
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे।
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ॥ 12-357-24(80273)
तावपश्यत्स भगवाननादिनिधनोऽच्युतः।
एकस्तत्राभवद्विन्दुर्मध्वाभो रुचिरप्रभः॥ 12-357-25(80274)
स तामसो मधुर्जातस्तदा नारायणाज्ञया।
कठिनस्त्वपरो विन्दुः कैटभो राजसस्तु सः॥ 12-357-26(80275)
तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ।
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ॥ 12-357-27(80276)
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभवम्।
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्॥ 12-357-28(80277)
ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ।
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा॥ 12-357-29(80278)
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान्।
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ॥ 12-357-30(80279)
ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत्।
ततो वचनमीशानं प्राह वेदैर्विनाकृतः॥ 12-357-31(80280)
ब्रह्मोवाच। 12-357-32x(6633)
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्।
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम्॥ 12-357-32(80281)
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः।
अन्धकारा हि मे लोका जाता वेदैर्विना कृताः॥ 12-357-33(80282)
वेदानृते हि किं कुर्या लोकानां सृष्टिमुत्तमाम्।
अहो बत महद्दुःखं वेदनाशनजं मम॥ 12-357-34(80283)
प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम्।
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत्॥ 12-357-35(80284)
वदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे।
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम॥ 12-357-36(80285)
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर।
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः॥ 12-357-37(80286)
ब्रह्मोवाच। 12-357-38x(6634)
ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज।
लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो॥ 12-357-38(80287)
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः।
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज।
अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः॥ 12-357-39(80288)
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्।
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम्॥ 12-357-40(80289)
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत्।
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो॥ 12-357-41(80290)
नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते।
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितं॥ 12-357-42(80291)
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो।
सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित॥ 12-357-43(80292)
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः।
त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन॥ 12-357-44(80293)
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग।
ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि।
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे॥ 12-357-45(80294)
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः।
जहौ निद्रामथ तदा वेदकार्यार्थमुह्यतः॥ 12-357-46(80295)
ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः।
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा।
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः॥ 12-357-47(80296)
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारकाः।
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः॥ 12-357-48(80297)
कर्णावाकाशपाताले ललाटं भूतधारिणी।
गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती॥ 12-357-49(80298)
चक्षुषी सोमसूर्यौं ते नासा संध्या पुनः स्मृता।
ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता॥ 12-357-50(80299)
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः।
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः।
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा॥ 12-357-51(80300)
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्।
अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः॥ 12-357-52(80301)
रसां पुनः प्रविष्टश्च योगं परममास्थितः।
शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम्॥ 12-357-53(80302)
सस्वरः सानुनादी च सर्वशः स्निग्ध एव च।
बभूवान्तर्जलगतः सर्वभूतगुणोदितः॥ 12-357-54(80303)
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान्।
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ॥ 12-357-55(80304)
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः।
जग्राह वेदानखिलान्रसालगतान्हरिः॥ 12-357-56(80305)
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः॥ 12-357-57(80306)
स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ।
वेदानामालयश्चापि बभूवाश्वरिरास्ततः॥ 12-357-58(80307)
अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ।
यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च॥ 12-357-59(80308)
तत उत्तममास्थाय वेगं बलवतां वरौ।
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा॥ 12-357-60(80309)
ददृशाते च पुरुषं तमेवादिकरं प्रभुम्।
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्।ट
भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम्॥ 12-357-61(80310)
आत्मप्रमाणरचिते अपामुपरि कल्पिते।
शयने नागभोगाढ्ये ज्वालामालासमावृते॥ 12-357-62(80311)
निष्कल्मषेण सत्वेन संपन्नं रुचिरप्रभम्।
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्॥ 12-357-63(80312)
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ।
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः॥ 12-357-64(80313)
अनेन नूनं वेदानां कृतमाहरणं रसात्।
कस्यैष कोनु खल्वेष किंच स्वपिति भोगवान्।
इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्॥ 12-357-65(80314)
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः।
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे॥ 12-357-66(80315)
अथ युद्धं समभवत्तयोर्नारायणस्य वै॥ 12-357-67(80316)
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ।
ब्रह्मणोपचितिं कुर्वञ्जधान मधुसूदनः॥ 12-357-68(80317)
ततस्तयोर्वधेनाशु वेदापहरणेन च।
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः॥ 12-357-69(80318)
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः।
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्॥ 12-357-70(80319)
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम्।
तत्रैवान्तर्दधे देवो यत एवागतो हरिः॥ 12-357-71(80320)
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम्।
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम्॥ 12-357-72(80321)
एवमेष महाभागो बभूवाश्वशिरा हरिः।
पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम्॥ 12-357-73(80322)
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा।
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन॥ 12-357-74(80323)
आराध्य तपसोग्रेण देवं हयशिरोधरम्।
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते॥ 12-357-75(80324)
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्।
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि॥ 12-357-76(80325)
यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित्।
तातां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना॥ 12-357-77(80326)
एष वेदनिधिः श्रीमानेष वै तपसोनिधिः।
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः॥ 12-357-78(80327)
नारायणपरा वेदा याज्ञा नारायणात्मकाः।
तपो नारायणपरं नारायणपरा गतिः॥ 12-357-79(80328)
नारायणपरं सत्यमृतं नारायणात्मकम्।
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः॥ 12-357-80(80329)
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः।
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः॥ 12-357-81(80330)
अपां चापि गुणा राजन्रसा नारायणात्मकाः।
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम्॥ 12-357-82(80331)
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः।
नारायणात्मकश्चैव शब्द आकाशसंभवः॥ 12-357-83(80332)
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्।
नारायणपरं कालो ज्योतिषामयनं च यत्॥ 12-357-84(80333)
नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः।
नारायणपरं साङ्ख्यं योगो नारायणात्मकः॥ 12-357-85(80334)
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम्।
स्वभावश्चैव कर्माणि दैवं येषां च कारणम्॥ 12-357-86(80335)
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम्॥ 12-357-87(80336)
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः।
तत्त्वं विज्ञासमानानां हेतुभिः सर्वतोमुखैः॥ 12-357-88(80337)
तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः।
ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम्॥ 12-357-89(80338)
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम्।
मनीषितं विजानाति केशवो न तु तस्य ते॥ 12-357-90(80339)
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते।
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत्॥ 12-357-91(80340)
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः।
सर्वभूतकृतावासो वासुदेवेति चोच्यते॥ 12-357-92(80341)
अयं हि नित्यः परमो महर्षि
र्महाविभूतिर्गुणवान्गुणाख्यः।
गुणैश्च संयोगमुपैति शीघ्रं
कालो यथर्तावृतुसंप्रयुक्तः॥ 12-357-93(80342)
नैवास्य विन्दन्ति गतिं महात्मनो
न चागतिं कश्चिदिहानुपश्यति।
ज्ञानात्मकाः संयमिनो महर्षयः।
पश्यन्ति नित्यं पुरुषं गुणाधिकम्॥ ॥ 12-357-94(80343)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः॥ 357॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-357-3 हव्यकव्यभुजः। मूलविभुजादित्वात्कः। अकारान्तः शब्दः। उदक्पूर्वे ऐशानकोणे। महोदधौ तत्समीपे। इदमुत्तरान्वयि॥ 12-357-5 अपूर्वं प्रागदृष्टम्॥ 12-357-6 अपूर्वं अद्भुतम्॥ 12-357-10 तत् अश्वशिरोरूपम्॥ 12-357-11 ईश्वरबुद्धिजैः ईश्वरसंकल्पमात्रजैः॥ 12-357-23 लोकनाथो महान्प्रभुरिति ट. पाठः॥ 12-357-38 लोकाद्यनिधनश्रेष्ठेति ट. पाठः॥ 12-357-46 देवकार्यार्थमुद्यत इति ट. ध. पाठः॥ 12-357-53 ओमिति प्रासृजत्स्वरमिति थ.ध. पाठः॥ 12-357-74 शृणुयाच्छ्राक्येत वेति थ. ध. पाठः॥ 12-357-90 केशवो ननु वै गतिरिति ट. पाठः॥ 12-357-93 गुणवान्निर्गुणाख्य इति थ. पाठः॥ 12-357-94 पुरुषं गुणातिगमिति ट. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|